|
|
 |
 |
|
|
५ उद्योगपर्व.jpg)
॥ श्रीः ॥
5.109. अध्यायः 109
Mahabharata - Udyoga Parva - Chapter Topics
गरुडेन गालवंप्रति दक्षिणदिग्गुणवर्णनम् ॥ 1 ॥
Mahabharata - Udyoga Parva - Chapter Text
सुपर्ण उवाच। 5-109-0x(3715)(35584)
इयं विवस्वदा पूर्वं श्रौतेन विधिना किल।
गुरवे दक्षिणा दत्ता दक्षिणेत्युच्यते च दिक् ॥ 5-109-1(35585)
अत्र लोकत्रयस्यास्य पितृपक्षः प्रतिष्ठितः।
अत्रोष्मपाणां देवानां निवासः श्रूयते द्विज ॥ 5-109-2(35586)
अत्र विश्वे सदा देवाः पितृभिः सार्धमासते।
इज्यमानाः स्म लोकेषु संप्राप्तास्तुल्यभागताम् ॥ 5-109-3(35587)
एतद्द्वितीयं देवस्य द्वारमाचक्षते द्विज।
त्रुटिशो लवशश्चापि गण्यते कालनिश्चयः ॥ 5-109-4(35588)
अत्र देवर्षयो नित्यं पितृलोकर्षयस्तथा।
तथा राजर्षयः सर्वे निवसन्ति गतव्यथाः ॥ 5-109-5(35589)
अत्र धर्मश्च सत्यं च कर्म चात्र निगद्यते।
गतिरेषा द्विजश्रेष्ठ कर्मणामवसायिनाम् ॥ 5-109-6(35590)
एषा दिक्सा द्विजश्रेष्ठ यां सर्वः प्रतिपद्यते।
वृता त्वनवबोधेन सुखं तेन न गम्यते ॥ 5-109-7(35591)
नैर्ऋतानां सहस्रामि बहून्यत्र द्विजर्षभ ।
सृष्टानि प्रतिकूलानि द्रष्टव्यान्यकृतात्मभिः ॥ 5-109-8(35592)
अत्र मन्दरकुञ्जेषु विप्रर्षिसदनेषु च।
गायन्ति गाथा गन्धर्वाश्चित्तबुद्धिहरा द्विज ॥ 5-109-9(35593)
अत्र सामानि गाथाभिः श्रुत्वा गीतानि रैवतः ।
गतदारो गतामात्यो गतराज्यो वनं गतः ॥ 5-109-10(35594)
अत्र सावर्मिना चैव यवक्रीतात्मजेन च।
मर्यादा स्थापिता ब्रह्मन्यां सूर्यो नातिवर्तते ॥ 5-109-11(35595)
अत्र राक्षसराजेन पौलस्त्येन महात्मना ।
रावणेन तपः कृत्वा सुरेभ्योऽमरता वृता ॥ 5-109-12(35596)
अत्र वृत्तेन वृत्रोऽपि शक्रशत्रुत्वमेयिवान् ।
अत्र सर्वासवः प्राप्ताः पुनर्गच्छन्ति पञ्चधा ॥ 5-109-13(35597)
अत्र दुष्कृतकर्माणो नराः पच्यन्ति गालव ।
अत्र वैतरणी नाम नदी वैतरणैर्वृता ॥ 5-109-14(35598)
अत्र गत्वा सुखस्यान्तं दुःखस्यान्तं प्रपद्यते।
अत्रावृत्तो दिनकरः सुरसं क्षरते पयः ॥ 5-109-15(35599)
काष्ठां चासाद्य वासिष्ठीं हिममुत्सृजते पुनः।
अत्राहं गालव पुरा क्षुधाऽऽर्तः परिचिन्तयन् ॥ 5-109-16(35600)
लब्धवान्युध्यमानौ द्वौ बृहन्तौ गजकच्छपौ ।
अत्र चक्रधनुर्नाम सूर्याञ्जातो महानृषिः ॥ 5-109-17(35601)
विदुर्यं कपिलं देवं येनार्ताः सगरात्मजाः ।
अत्र सिद्धाः शिवा नाम ब्राह्मणा वेदपारगाः ॥ 5-109-18(35602)
अधीत्य सकलान्वेदाँल्लेभिरे मोक्षमक्षयम्।
अत्र भोगवती नाम पुरी वासुकिपालिता ॥ 5-109-19(35603)
तक्षकेण च नागेन तथैवैरावतेन च।
अत्र निर्याणकालेऽपि तमः संप्राप्यते महत् ॥ 5-109-20(35604)
अभेद्यं भास्करेणापि स्वयं वा कृष्णवर्त्मना ।
एष तस्यापि ते मार्गः परिचारस्य गालव ।
ब्रूहि मे यदि गन्तव्यं प्रतीचीं शृणु चापराम् ॥ ॥ 5-109-21(35605)
इति श्रीमन्महाभरते उद्योगपर्वणि भगवद्यानपर्वणि नवाधिकशततमोऽध्यायः ॥
Mahabharata - Udyoga Parva - Chapter Footnotes
5-109-2 ऊष्मपाणां उष्णान्नभोजिनाम् ॥ 5-109-3 विश्वे त्रयोदशमितो गणः ॥ 5-109-4 द्वितीयं देवस्य धर्मस्य द्वारम् ॥ 5-109-11 सावर्णिना अनुना । मर्यादा सूर्यरथस्य ॥ 5-109-13 सर्वासवः सर्वेषां प्राणा अत्र प्राप्ताः सन्तः पुनः पञ्चधा गच्छन्ति देहं प्राप्नुवन्ति। प्राणापानादिभेदेनेत्यर्थः ॥ 5-109-14 वैतरणैः वैतरणीनदीसंज्ञकनरकाहैः ॥ 5-109-15 सुखस्यान्तं नरकम्। दुःखस्यान्तं स्वर्गसुखम्। आवृत्तः कर्कायनगतः। तदाहि वृष्टिर्भवति ॥ 5-109-16 वासिष्ठीं काष्ठां उदीचीं वसिष्ठोपलक्षितसप्तर्षिभिरधिष्ठिताम् ॥ 5-109-20 निर्याणकाले मरणकाले । तमः आन्ध्यम् ॥ 5-109-21 तस्य ते तव परिचारस्य अन्वेषणस्य ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|